अथ द्रोण पर्व समयः | द्रोणेन कौरवैः च युधिष्ठिरस्य बन्धाय उपायः क्रियते |
द्रोणेन उद्यते यत् “मया श्वः चक्रव्यूहः निर्मिष्यते | किन्तु यदि अर्जुनेन युद्धभूम्यां भविष्यते तर्हि मया युधिष्ठिरं बन्धयितुं न शक्ष्यते | पाण्डवसैन्ये अर्जुनं कृष्णं च विहाय केनापि चक्रव्यूहस्य भग्नं कर्तुं न शक्यते | कथञ्चित् युद्धभूम्याः अर्जुनः उपनीयते | तदा सुलभेन युधिष्ठिरः बन्ध्यते | ”
दुर्योधनेन अर्जुनं कुरुक्षेत्रात् उपनेतुं समसप्तकाभ्रातरः प्रबुध्यन्ते |
द्रोणेन उद्यते यत् “मया श्वः चक्रव्यूहः निर्मिष्यते | किन्तु यदि अर्जुनेन युद्धभूम्यां भविष्यते तर्हि मया युधिष्ठिरं बन्धयितुं न शक्ष्यते | पाण्डवसैन्ये अर्जुनं कृष्णं च विहाय केनापि चक्रव्यूहस्य भग्नं कर्तुं न शक्यते | कथञ्चित् युद्धभूम्याः अर्जुनः उपनीयते | तदा सुलभेन युधिष्ठिरः बन्ध्यते | ”
दुर्योधनेन अर्जुनं कुरुक्षेत्रात् उपनेतुं समसप्तकाभ्रातरः प्रबुध्यन्ते |
अग्रिम दिने समसप्तकाभ्रातृभिः युद्धाय अर्जुनः नुद्यते | युद्ध्यमानैः तैः अर्जुनः युद्धभूम्याः दूरं उपनीयते | इति दृष्ट्वा द्रोणेन चक्रव्यूहः निर्मीयते | तदा अर्जुनरहितैः चिन्ताक्रान्तैः पाण्डवैः चक्रव्यूहस्य भग्नाय उपायाः चिन्त्यन्ते | तेषां चर्चां श्रुत्वा अभिमन्युना पार्श्वे आगम्यते |
तेन उद्यते यत् “मया चक्रव्यूहे कथं प्रवेशनीयं इति ज्ञायते | किन्तु चक्रव्यूहात् बहिः कथं आगमनीयं इति न ज्ञायते | “
युधिष्टिरेण उद्यते यत् “पुत्र! यदा त्वया चक्रव्यूहे कुत्रचित् मार्गः कल्प्यते तदा त्वां अनुसृत्य अस्माभिः अपि अन्तः प्रविश्यते | अस्माभिः मिलित्वा कथञ्चित् व्यूहात् बहिः आगम्यते | निर्भयेन व्यूहध्वंसः क्रियताम् | “
बाणवर्षां कुर्वता अर्जुनपुत्रेण अभिमन्युना चक्रव्यूहस्य भग्नम् आरभ्यते | तेन अन्तः प्रविश्यते परन्तु दुर्योधनस्य श्यालेन जयद्रथेन पाण्डवाः स्थंभ्यन्ते | तं लङ्घित्वा पाण्डवैः अभिमन्योः अनुसरणं कर्तुं न शक्यते | एकाकिना अभिमन्युना कौरवसैन्येन सह युद्धं क्रियते | तेन कौरवसैन्यस्य अनेकैः महारथिभिः सह द्वन्द्वयुद्धं क्रियते | शल्यः कर्णः द्रोणः दुर्योधनः च पराजीयन्ते | क्षतेन शल्येन उपवेष्टुं अपि न शक्यते | श्रान्तेन कर्णेन रक्तमयेन भूयते | अभिमन्योः शौर्यात दुर्योधनेन रथरहितेन अस्त्ररहितेन रक्तमयेन भूयते | अर्जुनपुत्रेण दुर्योधनस्य पुत्रः लक्ष्मनकुमारः हन्यते |
पुत्रस्य वधं दृष्ट्वा दुर्योधनेन अभिमन्यवे बहु क्रुध्यते | क्रोधात् तेन सर्वे महारथयः आदिश्यन्ते यत् सर्वैः मिलित्वा अभिमन्युः प्रह्रियताम् | तथापि अभिमन्युना निपुणेन सर्वैः सह युद्ध्यते | अतः द्रोणेन कर्णः उद्यते यत् “यावत् अभिमन्योः हस्तयोः धनुः अस्ति तावत् अस्माभिः तं पराजयितुं न शक्यते | भवता तस्य धनुः खण्ड्यते |“ इति श्रुत्वा कर्णेन अभिमन्योः धनुः खण्ड्यते | द्रोणेन कृपेण च तस्य अश्वाः सारथिः च हन्यन्ते | तस्मात् रथरहितेन अभिमन्युना खड्गेन युद्ध्यते | द्रोणेन तस्य खड्गः अपि खण्ड्यते | कृष्णशिष्येण रथचक्रेन युद्धं आरभ्यते | कौरवश्रेष्ठैः सर्वैः मिलित्वा अभिमन्युः प्रह्रियते हन्यते च | अभिमन्युना वीरगतिः प्राप्यते |
No comments:
Post a Comment