सकारः षकारः वा
पठ्-धातोः मध्यमपुरुष-एकवचने पठसि भवति किन्तु कृ-धातोः करोषि भवति। कस्मात् ईदृशं परिवर्तनम्।
यदि सकारात् पूर्वः – अ, आ, विसर्गः, त्, प्, ट् – एतेषु षट्सु वर्णेषु कोऽपि एकोऽपि वर्णः अस्ति तर्हि सकारः सकारः एव तिष्ठति अन्यथा सकारः षकारः भवति।
उदाहरणार्थः – पठसि मालासु महःसु विद्वत्सु अप्सु सम्राट्सु करोषि मुनिषु धेनुषु नरेषु गोषु।
(Source: learnsanskrit.wordpress.com)
No comments:
Post a Comment