Friday, May 13, 2016

सर्वेऽपि लिखामः | निरन्तरं लिखामः |



श्रवण-वचन-पठनानन्तरम् अग्रिमसोपानम् अस्ति - लेखनम् इति | अस्माकं  सम्भाषणसामर्थ्यं यथा यथा वर्धते तथा तथा  लेखनाभ्यासः अपि आरभनीयः अस्माभिः | आरम्भे  दोषाः तु भविष्यन्ति एव | यथा सम्भाषणसमये दोषाःभवन्ति स्म (अत्र स्म इति प्रयोगः अनावश्यकः - दोषाः इदानीम् अपि भवन्त्येव :-) )  तथैव अत्रापि भविष्यन्ति |  अस्मिन्नपि लेखे नैके दोषाः स्युः आरम्भे | किन्तु गणशः वयं लेखानां परीशीलनं करिष्यामः दोषनिवारणं परिष्कारान् वा करिष्यामश्च | तेन अस्माकं लेखेषु दोषाः न्यूनाः भवेयुः | 

अतः वयं सर्वेऽपि निस्सङ्कोचं लिखामः लिखित्वा अन्यान् परिशीलयितुं प्रार्थयामश्च | लेखस्य विषयः कः भवतु? कियान् दीर्घः लेखः भवतु? कः पठिष्यति? पठित्वा उपहासं करिष्यति किम् ? एतादृशान् प्रश्नान् पार्श्वे स्थापयामः | यस्मिन्नपि विषये अस्माकं रुचिः स्यात् तस्मिन् विषये लिखामः | यावत् मनसि विचाराः आयान्ति तावत् लिखामः | कदाचित् सः कालः अपि आगच्छेत् यदा अन्ये अस्माकं संस्कृत-लेखान् पठेयुः तत्रत्य दोषान् अभिजानीयुः तेषां दोषाणां निन्दां कुर्युः च| परं दुर्भाग्यवशात् सः कालः इतोऽपि न आगतः :-) | अतः निस्सङ्कोचं निरन्तरं च वयं लिखामः इति अस्माकं सर्वेषाम् अपि सङ्कल्पः भवतु | 

इति शम् | 

No comments:

Post a Comment