Sunday, April 28, 2013

प्रथम ब्लौग - गणरुपेण सम्भाषण सामर्थ्यम्


व्यक्तिगतरुपेण प्रायेण केचन सम्भाषणसामर्थ्यं प्राप्नुयु: किन्तु गणरुपेण तत् प्राप्नुमश्चेत् इतोपि वरम्। येन वास्तविकतया संस्कृतभुवनं रचेयम। तादृशं गणीभूतं सम्भाषणसामर्थ्यं साधयितुं के विकल्पा: भवितुमर्हन्ति स एव अस्मिन् ब्लौगस्य ध्येय:। 


  • कार्यकर्तृणां मेलेने, कार्यसमये, दूरवाण्या सम्भाषणे वा दूरवाण्या सन्देशस्थापनसमये नितरां संस्कृतेनेव सम्भाषणम् भवेत्।
  • अन्यान् कार्यकर्तृन् यदा सामाजिक अवसरे मिलाम: (अन्येषां गृहे, आपणे, मार्गे वा) संस्कृतेन वदाम:। तेन ये संस्कृतेन भाषयितुं न शक्नुवन्ति ते अपि जानीयु: यत् संस्कृतेन सम्भाषणं सरलम् अस्ति। एवम् अन्येभ्य: अपि प्रेरणादायी भवेम।
  • यदि केचन एकस्मिन् एव कार्यालये कार्यं कुर्वन्त: सन्ति तर्हि कदाचित् मध्याह्नभोजनसमये मिलित्वा सम्भाषणं कर्तुं शक्नुवन्ति। 

No comments:

Post a Comment