पृच्छति -> पृष्टवान् (क्तवतु) -> पृष्ट: (क्त) -> पृष्ट्वा (त्वान्त)
पचति -> पक्ववान् (क्तवतु) -> पक्व: (क्त) -> पक्तवा (त्वान्त)
Q. पक्ववान्??? न तु पक्तवान्?
A. आम्।
क्त/क्तवतु प्रत्ययो: संज्ञा निष्ठा इति उच्यते। (सूत्रम् - १.०१.०२६ क्त-क्तवतू निष्ठा) (Link)
पाणिनीयसूत्रम् अस्ति ८. २. ५२ पचः वः ।
पचेः धातो: उत्तरस्य निष्ठा तकारस्य वकार आदेशः भवति। पक्वः। पक्ववान्। (काशिका)
पच् + क्त/क्तवतु -> पच् + त/तवत् -> पक् + त/तवत् (८.२.३० चो: कु: - चवर्गस्य स्थाने कवर्ग:)
तर्हि एवं 'पक्त्वा' त्वान्तरूपं भवति।
किन्तु - क्त/क्तवतु (निष्ठा) तकारस्य स्थाने वकार: आगच्छति। अत: 'पक्व' इति क्त प्रातिपदिकम्, पक्ववत् इति क्तवतु प्रातिपदिकम्। (पक्ववान्,पक्ववती)
(अत: एव 'पक्वं फलम्', न तु 'पक्तं फलम्')
No comments:
Post a Comment