Tuesday, January 14, 2014

L3+ अहं पक्तवान् इति पदं पक्ववान् ! (What word did I just cook up?)


पृच्छति -> पृष्टवान् (क्तवतु) -> पृष्ट: (क्त) -> पृष्ट्वा (त्वान्त)

पचति -> पक्ववान् (क्तवतु) -> पक्व: (क्त) -> पक्तवा (त्वान्त)

Q. पक्ववान्??? न तु पक्तवान्? 


A. आम्। 


क्त/क्तवतु प्रत्ययो: संज्ञा निष्ठा इति उच्यते। (सूत्रम् - १.०१.०२६  क्त-क्तवतू निष्ठा) (Link) 

पाणिनीयसूत्रम् अस्ति  ८. २. ५२ पचः वः । 

पचेः धातो: उत्तरस्य निष्ठा तकारस्य वकार आदेशः भवति। पक्वः। पक्ववान्। (काशिका)


पच् + क्त/क्तवतु -> पच् + त/तवत् -> पक् + त/तवत् (८.२.३० चो: कु: - चवर्गस्य स्थाने कवर्ग:

तर्हि एवं 'पक्त्वा' त्वान्तरूपं भवति। 

किन्तु - क्त/क्तवतु (निष्ठा) कारस्य स्थाने कार: आगच्छति। अत: 'पक्व' इति क्त प्रातिपदिकम्, पक्ववत् इति क्तवतु प्रातिपदिकम्। (पक्ववान्,पक्ववती)

(अत: एव 'पक्वं फलम्', न तु 'पक्तं फलम्')


No comments:

Post a Comment