Q. कुत्रचित् 'ग्रामाय गच्छति' इत्येतेन सदृश: उपयोग: दृश्यते। दोषाय किम्?
A.
पाणिनीयसूत्रम् अस्ति - २.३.१२ : गत्यर्थ-कर्मणि द्वितीया-चतुर्थ्यौ चेष्टायां अनध्वनि
अत: ग्रामाय गच्छामि वा ग्रामं गच्छामि - उभौ साधु।
लौकिक् भाषायां प्रायेण 'ग्रामं गच्छति' इति एव श्रूयते।
वस्तुतः उभौ अपि साधु एव। द्वितीया तु सर्वदा सम्यक्, चतुर्थ्याः प्रयोगे केचन नियमाः (restrictions) सन्ति।
- चतुर्थ्यां चेष्टा (physical movement) आवश्यकी। (चेष्टायाम्)
- अपि च मार्गविषये चतुर्थी असमीचीनम्। (अनध्वनि | अध्वन् => मार्ग:, or for other synonyms of अध्वन् )
उदाहरणम -
सः मनसा सन्तोषं गच्छति - शुद्धम्
सः मनसा सन्तोषाय गच्छति - अशुद्धम् (अत्र चेष्टा नास्ति)
सः मार्गं गच्छति - शुद्धम्
सः मार्गाय गच्छति - अशुद्धम् (अनध्वनि )
एतद्विहाय अन्यत्र चतुर्थी साधु -
सः ग्रामं गच्छति - शुद्धम्
सः ग्रामाय गच्छति - शुद्धम्
उदाहरणम -
सः मनसा सन्तोषं गच्छति - शुद्धम्
सः मनसा सन्तोषाय गच्छति - अशुद्धम् (अत्र चेष्टा नास्ति)
सः मार्गं गच्छति - शुद्धम्
सः मार्गाय गच्छति - अशुद्धम् (अनध्वनि )
एतद्विहाय अन्यत्र चतुर्थी साधु -
सः ग्रामं गच्छति - शुद्धम्
सः ग्रामाय गच्छति - शुद्धम्
No comments:
Post a Comment